(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.110. अध्यायः 110
Mahabharata - Drona Parva - Chapter Topics
रणाङ्कणो पाञ्चजन्यस्वने श्रुते अश्रुतेच गाण्डीवघोषे अर्जुनस्य विपदमाशङ्कमानेन युधिष्ठिरेण सात्यकिम्प्रति अर्जुनवृत्तान्तपरिज्ञानाय गमनचोदना॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-110-0x(4539)(49122)
भारद्वाजं कथं युद्धे युयुधानो न्यवारयत्।
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे॥ 7-110-1(49123)
सञ्जय उवाच। 7-110-2x(4540)
शृणु राजन्महाप्राज्ञ सङ्ग्रामं रोमहर्षणम्।
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः॥ 7-110-2(49124)
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष।
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम्॥ 7-110-3(49125)
तमापतन्तं सहसा भारद्वाजं महारथम्।
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥ 7-110-4(49126)
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः।
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शरैः शितैः॥ 7-110-5(49127)
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः।
अभ्ययुर्धरणीं राजन्वल्मीकमिव पन्नगाः॥ 7-110-6(49128)
दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः।
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः॥ 7-110-7(49129)
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्।
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत॥ 7-110-8(49130)
ततः क्रुद्धो महेष्वासो भूय एव महाबलः।
सात्वतं पीडयामास व्रातेन नतपर्वणाम्॥ 7-110-9(49131)
स वध्यमानः समरे भारद्वाजेन सात्यकिः।
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते॥ 7-110-10(49132)
विषण्णवदनश्चापि युयुधानोऽभवन्नृप।
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान्॥ 7-110-11(49133)
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशाम्पते।
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः॥ 7-110-12(49134)
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्।
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत॥ 7-110-13(49135)
एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः।
ग्रस्यते युधि वीरेण भानुमानिव राहुणा।
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते॥ 7-110-14(49136)
अभिद्रवत गच्छद्वं सात्यकिर्यत्र युध्यते॥
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः।
`द्रोणं वारय सुक्षित्रं सात्यकिं मावधीद्द्विजः'॥ 7-110-15(49137)
अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्पत।
न पश्यसि भयं द्रोणाद्धोरं नः समुपस्थितम्॥ 7-110-16(49138)
असौ द्रोणो महेष्वासो युयुधानेन संयुगे।
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा॥ 7-110-17(49139)
तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः।
त्वयैव सहिताः सर्वे युयुधानरथं प्रति॥ 7-110-18(49140)
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः।
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम्॥ 7-110-19(49141)
सञ्जय उवाच। 7-110-20x(4541)
एवमुक्त्वा ततो राजा सर्वसैन्येन भारत।
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात्॥ 7-110-20(49142)
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्।
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः॥ 7-110-21(49143)
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्।
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः॥ 7-110-22(49144)
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्।
अतिथीनागतान्यद्वत्सलिलेनासनेन च॥ 7-110-23(49145)
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः।
आतिथेयं गृहं प्राप्य तर्प्यन्तेऽतिथयो यथा॥ 7-110-24(49146)
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्।
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो॥ 7-110-25(49147)
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः।
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान्॥ 7-110-26(49148)
वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः॥ 7-110-27(49149)
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः।
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः॥ 7-110-28(49150)
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः।
महारथाः समाख्याता धृष्टद्युम्नस्य सम्मताः॥ 7-110-29(49151)
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च।
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान्॥ 7-110-30(49152)
केकयानां शतं हत्वा विद्राव्य च समन्ततः।
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः॥ 7-110-31(49153)
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयांश्च नराधिप।
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः॥ 7-110-32(49154)
तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः।
वनौकसामिवारण्ये व्याप्तानां धृमकेतुना॥ 7-110-33(49155)
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप।
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः॥ 7-110-34(49156)
तं तथा समरे द्रोणं निघ्नन्तं सौमकान्रणे।
न चाप्यभिययुः केचिदपरे नैव विव्यधुः॥ 7-110-35(49157)
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये।
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निःस्वनम्॥ 7-110-36(49158)
पूरिते वासुदेवेन शङ्खराजे महात्मना।
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु॥ 7-110-37(49159)
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति।
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः॥ 7-110-38(49160)
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः।
न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट्॥ 7-110-39(49161)
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः।
`व्यक्तमद्य विनश्यन्ति सर्वलोकमहारथाः'॥ 7-110-40(49162)
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना।
अजताशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत॥ 7-110-41(49163)
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः।
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम्॥ 7-110-42(49164)
युधिष्ठिर उवाच। 7-110-43x(4542)
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः।
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः॥ 7-110-43(49165)
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव।
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके॥ 7-110-44(49166)
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः।
स कार्ये साम्पराये तु नियोज्य इति मे मतिः॥ 7-110-45(49167)
यथा च केशवो नित्यं पाण्डवानानं परायणम्।
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः॥ 7-110-46(49168)
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि।
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि॥ 7-110-47(49169)
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे।
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ॥ 7-110-48(49170)
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः।
लोके विख्यायसे वीर कर्मभिः सत्यवागिति॥ 7-110-49(49171)
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम्।
पृथिवीं च द्विजातिभ्यो यो दद्यात्स समो भवेत्॥ 7-110-50(49172)
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः।
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि॥ 7-110-51(49173)
`दीयमाना च बहुभिर्दास्यते च मुहुर्मही।
न हि कश्चिद्रणे प्राणान्मित्रार्थे त्यक्तवानिह'॥ 7-110-52(49174)
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः।
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो॥ 7-110-53(49175)
एक एव सदा कृष्णो मित्राणामभयङ्करः।
रणे सन्तजति प्राणान्द्वितीयस्त्वं च सात्यके॥ 7-110-54(49176)
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः।
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः॥ 7-110-55(49177)
ईदृशे तु परामर्दे वर्तमानस्य माधव।
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते॥ 7-110-56(49178)
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः।
मम सञ्चनयन्हर्षं पुनः पुनरकीर्तयत्॥ 7-110-57(49179)
लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः।
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे॥ 7-110-58(49180)
महास्कन्धो महोरस्को महाबाहुर्महाहनुः।
महाबलो महावीर्यः स महात्मा महारथः॥ 7-110-59(49181)
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे।
युयुधानः सहायो मे प्रमथिष्यति कौरवान्॥ 7-110-60(49182)
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः।
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः॥ 7-110-61(49183)
गदो वा मारणो वापि साम्वो वा सह वृष्णिभिः।
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि॥ 7-110-62(49184)
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्।
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्योहि तत्समः॥ 7-110-63(49185)
इति द्वैतवने तात मामुवाच धनञ्जयः।
परोक्षे त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि॥ 7-110-64(49186)
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि।
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः॥ 7-110-65(49187)
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति।
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान्॥ 7-110-66(49188)
न तन्सौहृदनन्येपु मया शैनेय लक्षितम्।
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे॥ 7-110-67(49189)
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च।
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव॥ 7-110-68(49190)
सत्यस्य च महावाहो अनुकम्पार्थमेव च।
अनुरूपं महेप्वास कर्म त्वं कर्तुमर्हसि॥ 7-110-69(49191)
सुयोधनो हि सहसा गतो द्रोणेन दंशितः।
पूर्वमेवानुयातास्ते कौरवाणां महारथाः॥ 7-110-70(49192)
सुमहान्निनदश्चैव श्रूयते विजयं प्रति।
स शैनेय जवेनाशु गन्तुमर्हसि मानद॥ 7-110-71(49193)
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः।
द्रोणमावारयिष्यामो यदि त्वां प्रतियोत्स्यते॥ 7-110-72(49194)
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे।
महान्तं चरणे शब्दं दीर्यमाणां च भारतीम्॥ 7-110-73(49195)
महामारुतवेगेन समुद्रमिव पर्वसु।
धार्तराष्टबलं तात विक्षिप्तं सव्यसाचिना॥ 7-110-74(49196)
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह।
सैन्यं रजःसमुद्भूतमेतत्सम्परिवर्तते॥ 7-110-75(49197)
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः।
अत्यन्तोपचितैः शूरैः फल्गुनः परवीरहा॥ 7-110-76(49198)
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः।
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः॥ 7-110-77(49199)
शरशक्तिध्वजवरं हयनागसमाकुलम्।
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम्॥ 7-110-78(49200)
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्।
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा॥ 7-110-79(49201)
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः।
सादिनां द्रवतां चैव शृणु कम्पयतां महीम्॥ 7-110-80(49202)
पुरस्तात्सैन्धवानीकं द्रोणानीकं च पृष्ठतः।
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत्॥ 7-110-81(49203)
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्।
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः॥ 7-110-82(49204)
सर्वथा समनुप्राप्तः सुकृच्छ्रं त्वयि जीवति।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः॥ 7-110-83(49205)
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्यात भारतीम्।
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते॥ 7-110-84(49206)
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा।
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत्॥ 7-110-85(49207)
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्।
अविपह्यां महाबाहुः सुरैरपि महाहवे॥ 7-110-86(49208)
न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन।
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम्॥ 7-110-87(49209)
प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः।
युगपच्च समेतानां कार्याणां त्वं विचक्षणः।
महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद॥ 7-110-88(49210)
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत्।
अर्जुनस्य परित्राणां कर्तव्यमिति संयुगे॥ 7-110-89(49211)
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम्।
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान्॥ 7-110-90(49212)
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते।
किम्पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम्॥ 7-110-91(49213)
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि।
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम्॥ 7-110-92(49214)
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा।
तादृशस्येदृशे काले मादृशेनाभिनोदितः॥ 7-110-93(49215)
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ।
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः॥ 7-110-94(49216)
अस्त्रे नारायणसमः सङ्कर्षणसमो बले।
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि॥ 7-110-95(49217)
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम्।
त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते॥ 7-110-96(49218)
`सदेवासुरगन्धर्वान्सकिन्नरमहोरगान्।
योधयेच्च जगत्सर्वं विजयेत रिपून्बहून्॥ 7-110-97(49219)
इति ब्रुवन्ति लोकेषु जनास्तव गुणांस्तथा।
समागमेषु सर्वेषु पृथगेव च सर्वदा'।
नाशक्यं विद्यते लोके सात्यकेरिति माधव॥ 7-110-98(49220)
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल॥ 7-110-99(49221)
सम्भावना हि लोकस्य मम पार्थस्य चोभयोः।
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि॥ 7-110-100(49222)
परित्यज्य प्रियान्प्राणान्रणे चर विभीतवत्।
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम्॥ 7-110-101(49223)
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम्।
भीरूणामसतां मार्गे नैष दाशार्हसेवितः॥ 7-110-102(49224)
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गच।
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः॥ 7-110-103(49225)
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम्।
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम्॥ 7-110-104(49226)
वासुदेवमतं चैव मम चैवार्जुनस्य च।
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः॥ 7-110-105(49227)
एतद्वचनमाज्ञाय मम सत्यपराक्रम।
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः॥ 7-110-106(49228)
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः।
यथार्हमात्मनः कर्म रणे सात्वत दर्शय॥ ॥ 7-110-107(49229)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे दशाधिकशततमोऽध्यायः॥ 110 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-110-29 तस्मिन्नवसरे॥ 5-110-42 कृत्यस्य जयद्रथवधस्यानन्तरापेक्षी अविघ्नाकाङ्क्षी॥ 5-110-43 यः स धर्मो मैत्रीलक्षणः। साम्पराये आपत्काले॥ 5-110-47 वयस्यस्य स्रिग्धस्य। सहायार्थं सहायरूपप्रयोजनम्॥ 5-110-67 उपप्लुवे विमर्दे॥ 5-110-68 सख्यादेरनुरूपमित्यनेनान्वयः॥ 5-110-69 सत्यस्याङ्गीकारस्य। अनुकम्पार्थमर्जुनानुपालननिमित्तम्॥ 5-110-79 श्रूयते हि रणं प्रति इति क.पाठः॥ 5-110-88 महार्थं महान्तमर्थम्। लघुसंयुक्तमविलम्बसम्पन्नम्॥ 5-110-101 विभीतवदभीतः॥ 5-110-102 अनबस्थानमस्थैर्यम्॥ 5-110-110 दशाधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.